Plate 1
श्रीगणेशाय नमः अथ ध्यानस्य श्लोकोयं लिख्यते
शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं।लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं॥१॥
अथ प्रणामस्य श्लोकोयं लिख्यते
ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिंचिनुतं शरण्यं।भृत्यार्तिहं प्रणतपालं भवाब्धिपोतं वंदे महापुरुष ते चरणारविंदं॥२॥
Comments
Loading comments…